Translate

Friday, 1 March 2019

"सौंदर्य-लहरी"

"सौंदर्य-लहरी"


             
     आदि गुरु शंकराचार्य अपनी भारत दिग्विजय यात्रा के समय गुरु गोविन्द भगवत्पाद एवं परमगुरु गौडपादाचार्य दर्शन के लिए कैलाश पहुंचेजहां दोनों गुरुवर हिमालय पर्वत में तपस्यारत थे |  कैलाश की अद्भुत छटा के बीच उन्हें पराशक्ति सहित परमेश्वर के अपूर्व दर्शन हुए और वे परमानन्द की अनुभूति करने लगे | उस समय उनकी वाणी में परमेश्वर की वाक्शक्ति का समावेश हो गया और उन्होंने एकसौ दिव्य श्लोकों से पराशक्ति जगन्माता की स्तुति की वही स्तोत्र "सौंदर्य-लहरी" के नाम से विख्यात है | सौंदर्य-लहरी का प्रथम भाग "आनंद-लहरी" के नाम से जाना जाता हैजिसमे ४१ श्लोक हैं | द्वितीय भाग में सौंदर्य-लहरी है जिसमे को ५९ श्लोक हैं | इन श्लोकों में देवी पराशक्ति के मस्तक से पद (चरण) तक प्रत्येक अवयव का अत्यंत सुन्दर एवं विलक्षण वर्णन है | सम्पूर्ण स्त्रोत को ही सौंदर्य-लहरी कहते हैं और यह मंत्रशास्त्र का एक महत्वपूर्ण ग्रन्थ माना जाता है | 
    रचना :              आदि शंकराचार्य

              प्रथम भागः – आनंद लहरी 


भुमौस्खलित पादानाम् भूमिरेवा वलंबनम् ।
त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पंदितुमपि।
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि
प्रणंतुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ १ ॥
तनीयांसुं पांसुं तव चरण पंकेरुह-भवं
विरिंचिः संचिन्वन् विरचयति लोका-नविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः संक्षुद्-यैनं भजति भसितोद्धूल नविधिम्॥ २ ॥
अविद्याना-मंत-स्तिमिर-मिहिर द्वीपनगरी
जडानां चैतन्य-स्तबक मकरंद श्रुतिझरी ।
दरिद्राणां चिंतामणि गुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति॥ ३ ॥
त्वदन्यः पाणिभया-मभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटित-वरभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥
हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् ।
स्मरोपि त्वां नत्वा रतिनयन-लेह्येन वपुषा
मुनीनामप्यंतः प्रभवति हि मोहाय महताम् ॥ ५ ॥
धनुः पौष्पं मौर्वी मधुकरमयी पंच विशिखाः
वसंतः सामंतो मलयमरु-दायोधन-रथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां
अपांगात्ते लब्ध्वा जगदिद-मनंगो विजयते ॥ ६ ॥
क्वणत्कांची-दामा करि कलभ कुंभ-स्तननता
परिक्षीणा मध्ये परिणत शरच्चंद्र-वदना ।
धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः
पुरस्ता दास्तां नः पुरमथितु राहो-पुरुषिका ॥ ७ ॥
सुधासिंधोर्मध्ये सुरविट-पिवाटी-परिवृते
मणिद्वीपे नीपो-पवनवति चिंतामणि गृहे ।
शिवकारे मंचे परमशिव-पर्यंक निलयाम्
भजंति त्वां धन्याः कतिचन चिदानंद-लहरीम् ॥ ८ ॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि ।
मनोपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे स हरहसि पत्या विहरसे ॥ ९ ॥
सुधाधारासारै-श्चरणयुगलांत-र्विगलितैः
प्रपंचं सिन्ञ्ंती पुनरपि रसाम्नाय-महसः।
अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुंडे कुहरिणि ॥ १० ॥
चतुर्भिः श्रीकंठैः शिवयुवतिभिः पंचभिपि
प्रभिन्नाभिः शंभोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय-
त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ॥ ११ ॥
त्वदीयं सौंदर्यं तुहिनगिरिकन्ये तुलयितुं
कवींद्राः कल्पंते कथमपि विरिंचि-प्रभृतयः ।
यदालोकौत्सुक्या-दमरललना यांति मनसा
तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ॥ १२ ॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापांगालोके पतित-मनुधावंति शतशः ।
गलद्वेणीबंधाः कुचकलश-विस्त्रिस्त-सिचया
हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतयः ॥ १३ ॥
क्षितौ षट्पंचाशद्-द्विसमधिक-पंचाश-दुदके
हुतशे द्वाषष्टि-श्चतुरधिक-पंचाश-दनिले ।
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादांबुज-युगम् ॥ १४ ॥
शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ।
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ॥ १५ ॥
कवींद्राणां चेतः कमलवन-बालातप-रुचिं
भजंते ये संतः कतिचिदरुणामेव भवतीम् ।
विरिंचि-प्रेयस्या-स्तरुणतर-श्रृंगर लहरी-
गभीराभि-र्वाग्भिः र्विदधति सतां रंजनममी ॥ १६ ॥
सवित्रीभि-र्वाचां चशि-मणि शिला-भंग रुचिभि-
र्वशिन्यद्याभि-स्त्वां सह जननि संचिंतयति यः ।
स कर्ता काव्यानां भवति महतां भंगिरुचिभि-
र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरैः ॥ १७ ॥
तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि-
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ।
भवंत्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ॥ १८ ॥
मुखं बिंदुं कृत्वा कुचयुगमध-स्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवींदु-स्तनयुगाम् ॥ १९ ॥
किरंती-मंगेभ्यः किरण-निकुरुंबमृतरसं
हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुंतधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥
तटिल्लेखा-तन्वीं तपन शशि वै॒श्वानर मयीं
निष्ण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्मातव्यां मृदित-मलमायेन मनसा
महांतः पश्यंतो दधति परमाह्लाद-लहरीम् ॥ २१ ॥
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं
मुकुंद-ब्रम्हेंद्र स्फुट मकुट नीराजितपदाम् ॥ २२ ॥
त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा
शरीरार्धं शंभो-रपरमपि शंके हृतमभूत् ।
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ २३ ॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ।
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव-
स्तवाज्ञा मलंब्य क्षणचलितयो र्भ्रूलतिकयोः ॥ २४ ॥
त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयो-र्या विरचिता ।
तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे
स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटाः ॥ २५ ॥
विरिंचिः पंचत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितंद्री माहेंद्री-विततिरपि संमीलित-दृशा
महासंहारेस्मिन् विहरति सति त्वत्पति रसौ ॥ २६ ॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः ।
प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा
सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् ॥ २७ ॥
सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं
विपद्यंते विश्वे विधि-शतमखाद्या दिविषदः ।
करालं यत् क्ष्वेलं कबलितवतः कालकलना
न शंभोस्तन्मूलं तव जननि ताटंक महिमा ॥ २८ ॥
किरीटं वैरिंचं परिहर पुरः कैटभभिदः
कठोरे कोठीरे स्कलसि जहि जंभारि-मकुटम् ।
प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं
भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते ॥ २९ ॥
स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो
निषेव्ये नित्ये त्वा महमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो
महासंवर्ताग्नि-र्विरचयति नीराजनविधिम् ॥ ३० ॥
चतुः-षष्टया तंत्रैः सकल मतिसंधाय भुवनं
स्थितस्तत्त्त-सिद्धि प्रसव परतंत्रैः पशुपतिः ।
पुनस्त्व-न्निर्बंधा दखिल-पुरुषार्थैक घटना-
स्वतंत्रं ते तंत्रं क्षितितल मवातीतर-दिदम् ॥ ३१ ॥
शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः
स्मरो हंसः शक्र-स्तदनु च परा-मार-हरयः ।
अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता
भजंते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥
स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो
र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः ।
भजंति त्वां चिंतामणि-गुणनिबद्धाक्ष-वलयाः
शिवाग्नौ जुह्वंतः सुरभिघृत-धाराहुति-शतै ॥ ३३ ॥
शरीरं त्वं शंभोः शशि-मिहिर-वक्षोरुह-युगं
तवात्मानं मन्ये भगवति नवात्मान-मनघम् ।
अतः शेषः शेषीत्यय-मुभय-साधारणतया
स्थितः संबंधो वां समरस-परानंद-परयोः ॥ ३४ ॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा
चिदानंदाकारं शिवयुवति भावेन बिभृषे ॥ ३५ ॥
तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं
परं शंभु वंदे परिमिलित-पार्श्वं परचिता ।
यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये
निरालोके ‌உलोके निवसति हि भालोक-भुवने ॥ ३६ ॥
विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं
शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् ।
ययोः कांत्या यांत्याः शशिकिरण्-सारूप्यसरणे
विधूतांत-र्ध्वांता विलसति चकोरीव जगती ॥ ३७ ॥
समुन्मीलत् संवित्कमल-मकरंदैक-रसिकं
भजे हंसद्वंद्वं किमपि महतां मानसचरम् ।
यदालापा-दष्टादश-गुणित-विद्यापरिणतिः
यदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव ॥ ३८ ॥
तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महसि क्रोध-कलिते
दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ॥ ३९ ॥
तटित्वंतं शक्त्या तिमिर-परिपंथि-स्फुरणया
स्फुर-न्ना नरत्नाभरण-परिणद्धेंद्र-धनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैक-शरणं
निषेवे वर्षंतं-हरमिहिर-तप्तं त्रिभुवनम् ॥ ४० ॥
तवाधारे मूले सह समयया लास्यपरया
नवात्मान मन्ये नवरस-महातांडव-नटम् ।
उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनक जननीमत् जगदिदम् ॥ ४१ ॥


      द्वितीय भागः – सौंदर्य लहरी


गतै-र्माणिक्यत्वं गगनमणिभिः सांद्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीतयति यः ॥
स नीडेयच्छाया-च्छुरण-शकलं चंद्र-शकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२ ॥
धुनोतु ध्वांतं न-स्तुलित-दलितेंदीवर-वनं
घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुंबं तव शिवे ।
यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसो
वसंत्यस्मिन् मन्ये बलमथन वाटी-विटपिनाम् ॥ ४३ ॥
तनोतु क्षेमं न-स्तव वदनसौंदर्यलहरी
परीवाहस्रोतः-सरणिरिव सीमंतसरणिः।
वहंती- सिंदूरं प्रबलकबरी-भार-तिमिर
द्विषां बृंदै-र्वंदीकृतमेव नवीनार्क केरणम् ॥ ४४ ॥
अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः
परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचि किंजल्क-रुचिरे
सुगंधौ माद्यंति स्मरदहन चक्षु-र्मधुलिहः ॥ ४५ ॥
ललाटं लावण्य द्युति विमल-माभाति तव यत्
द्वितीयं तन्मन्ये मकुटघटितं चंद्रशकलम् ।
विपर्यास-न्यासा दुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राका-हिमकरः ॥ ४६ ॥
भ्रुवौ भुग्ने किंचिद्भुवन-भय-भंगव्यसनिनि
त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् ।
धनु र्मन्ये सव्येतरकर गृहीतं रतिपतेः
प्रकोष्टे मुष्टौ च स्थगयते निगूढांतर-मुमे ॥ ४७ ॥
अहः सूते सव्य तव नयन-मर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टि-र्दरदलित-हेमांबुज-रुचिः
समाधत्ते संध्यां दिवसर्-निशयो-रंतरचरीम् ॥ ४८ ॥
विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुरा‌உभोगवतिका ।
अवंती दृष्टिस्ते बहुनगर-विस्तार-विजया
ध्रुवं तत्तन्नाम-व्यवहरण-योग्याविजयते ॥ ४९ ॥
कवीनां संदर्भ-स्तबक-मकरंदैक-रसिकं
कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् ।
अमुंच्ंतौ दृष्ट्वा तव नवरसास्वाद-तरलौ
असूया-संसर्गा-दलिकनयनं किंचिदरुणम् ॥ ५० ॥
शिवे शंगारार्द्रा तदितरजने कुत्सनपरा
सरोषा गंगायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तु-श्चित्तप्रशम-रस-विद्रावण फले ।
इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके
तवाकर्णाकृष्ट स्मरशर-विलासं कलयतः॥ ५२ ॥
विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलांजनतया
विभाति त्वन्नेत्र त्रितय मिद-मीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान्
रजः सत्वं वेभ्रत् तम इति गुणानां त्रयमिव ॥ ५३ ॥
पवित्रीकर्तुं नः पशुपति-पराधीन-हृदये
दयामित्रै र्नेत्रै-ररुण-धवल-श्याम रुचिभिः ।
नदः शोणो गंगा तपनतनयेति ध्रुवमुम्
त्रयाणां तीर्थाना-मुपनयसि संभेद-मनघम् ॥ ५४ ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति
तवेत्याहुः संतो धरणिधर-राजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयतः
परेत्रातुं शंंके परिहृत-निमेषा-स्तव दृशः ॥ ५५ ॥
तवापर्णे कर्णे जपनयन पैशुन्य चकिता
निलीयंते तोये नियत मनिमेषाः शफरिकाः ।
इयं च श्री-र्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघतय्य प्रविशति॥ ५६ ॥
दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपा कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकर निपातो हिमकरः ॥ ५७ ॥
अरालं ते पालीयुगल-मगराजन्यतनये
न केषा-माधत्ते कुसुमशर कोदंड-कुतुकम् ।
तिरश्चीनो यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन्
अपांग व्यासंगो दिशति शरसंधान धिषणाम् ॥ ५८ ॥
स्फुरद्गंडाभोग-प्रतिफलित ताट्ंक युगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्य त्यवनिरथ मर्केंदुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥
सरस्वत्याः सूक्ती-रमृतलहरी कौशलहरीः
पिब्नत्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् ।
चमत्कारः-श्लाघाचलित-शिरसः कुंडलगणो
झणत्करैस्तारैः प्रतिवचन-माचष्ट इव ते ॥ ६० ॥
असौ नासावंश-स्तुहिनगिरिवण्श-ध्वजपटि
त्वदीयो नेदीयः फलतु फल-मस्माकमुचितम् ।
वहत्यंतर्मुक्ताः शिशिरकर-निश्वास-गलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥
प्रकृत्या‌உरक्ताया-स्तव सुदति दंदच्छदरुचेः
प्रवक्ष्ये सदृश्यं जनयतु फलं विद्रुमलता ।
न बिंबं तद्बिंब-प्रतिफलन-रागा-दरुणितं
तुलामध्रारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥
स्मितज्योत्स्नाजालं तव वदनचंद्रस्य पिबतां
चकोराणा-मासी-दतिरसतया चंचु-जडिमा ।
अतस्ते शीतांशो-रमृतलहरी माम्लरुचयः
पिबंती स्वच्छंदं निशि निशि भृशं कांजि कधिया ॥ ६३ ॥
अविश्रांतं पत्युर्गुणगण कथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयि
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥
रणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिः
निवृत्तै-श्चंडांश-त्रिपुरहर-निर्माल्य-विमुखैः ।
विशाखेंद्रोपेंद्रैः शशिविशद-कर्पूरशकला
विलीयंते मातस्तव वदनतांबूल-कबलाः ॥ ६५ ॥
विपंच्या गायंती विविध-मपदानं पशुपते-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयै-र्माधुर्यै-रपलपित-तंत्रीकलरवां
निजां वीणां वाणीं निचुलयति चोलेन निभृतम् ॥ ६६ ॥
करग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरिशेनो-दस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शंभोर्मुखमुकुरवृंतं गिरिसुते
कथंकरं ब्रूम-स्तव चुबुकमोपम्यरहितम् ॥ ६७ ॥
भुजाश्लेषान्नित्यं पुरदमयितुः कन्टकवती
तव ग्रीवा धत्ते मुखकमलनाल-श्रियमियम् ।
स्वतः श्वेता काला गरु बहुल-जंबालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥
गले रेखास्तिस्रो गति गमक गीतैक निपुणे
विवाह-व्यानद्ध-प्रगुणगुण-संख्या प्रतिभुवः ।
विराजंते नानाविध-मधुर-रागाकर-भुवां
त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते ॥ ६९ ॥
मृणाली-मृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौंद्रयं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः संत्रस्यन् प्रथम-मथना दंतकरिपोः
चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया ॥ ७० ॥
नखाना-मुद्योतै-र्नवनलिनरागं विहसतां
कराणां ते कांतिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हंत कमलं
यदि क्रीडल्लक्ष्मी-चरणतल-लाक्षारस-चणम् ॥ ७१ ॥
समं देवि स्कंद द्विपिवदन पीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुत-मुखम् ।
यदालोक्याशंकाकुलित हृदयो हासजनकः
स्वकुंभौ हेरंबः परिमृशति हस्तेन झडिति ॥ ७२ ॥
अमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौ
न संदेहस्पंदो नगपति पताके मनसि नः ।
पिबंतौ तौ यस्मा दविदित वधूसंग रसिकौ
कुमारावद्यापि द्विरदवदन-क्रौंच्दलनौ ॥ ७३ ॥
वहत्यंब स्त्ंबेरम-दनुज-कुंभप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिंबाधर-रुचिभि-रंतः शबलितां
प्रताप-व्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयः पारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत्
कवीनां प्रौढाना मजनि कमनीयः कवयिता ॥ ७५ ॥
हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङो मनसिजः ।
समुत्तस्थौ तस्मा-दचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६ ॥
यदेतत्कालिंदी-तनुतर-तरंगाकृति शिवे
कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।
विमर्दा-दन्योन्यं कुचकलशयो-रंतरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७ ॥
स्थिरो गंगा वर्तः स्तनमुकुल-रोमावलि-लता
कलावालं कुंडं कुसुमशर तेजो-हुतभुजः ।
रते-र्लीलागारं किमपि तव नाभिर्गिरिसुते
बेलद्वारं सिद्धे-र्गिरिशनयनानां विजयते ॥ ७८ ॥
निसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषो
नमन्मूर्ते र्नारीतिलक शनकै-स्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणा
समावस्था-स्थेम्नो भवतु कुशलं शैलतनये ॥ ७९ ॥
कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौ
कषंतौ-दौर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भंगादलमिति वलग्नं तनुभुवा
त्रिधा नद्ध्म् देवी त्रिवलि लवलीवल्लिभिरिव ॥ ८० ॥
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्
नितंबा-दाच्छिद्य त्वयि हरण रूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितंब-प्राग्भारः स्थगयति सघुत्वं नयति च ॥ ८१ ॥
करींद्राणां शुंडान्-कनककदली-कांडपटलीं
उभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुध करिकुंभ द्वयमसि ॥ ८२ ॥
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषंगौ जंघे ते विषमविशिखो बाढ-मकृत ।
यदग्रे दृस्यंते दशशरफलाः पादयुगली
नखाग्रच्छन्मानः सुर मुकुट-शाणैक-निशिताः ॥ ८३ ॥
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शेरसि दयया देहि चरणौ ।
यय‌ओः पाद्यं पाथः पशुपति जटाजूट तटिनी
ययो-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि रुचिः ॥ ८४ ॥
नमो वाकं ब्रूमो नयन-रमणीयाय पदयोः
तवास्मै द्वंद्वाय स्फुट-रुचि रसालक्तकवते ।
असूयत्यत्यंतं यदभिहननाय स्पृहयते
पशूना-मीशानः प्रमदवन-कंकेलितरवे ॥ ८५ ॥
मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादंतः शल्यं दहनकृत मुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलित मीशान रिपुणा ॥ ८६ ॥
हिमानी हंतव्यं हिमगिरिनिवासैक-चतुरौ
निशायां निद्राणं निशि-चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रिय-मतिसृहंतो समयिनां
सरोजं त्वत्पादौ जननि जयत-श्चित्रमिह किम् ॥ ८७ ॥
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् ।
कथं वा बाहुभ्या-मुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥
नखै-र्नाकस्त्रीणां करकमल-संकोच-शशिभिः
तरूणां दिव्यानां हसत इव ते चंडि चरणौ ।
फलानि स्वःस्थेभ्यः किसलय-कराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिश-मह्नाय ददतौ ॥ ८९ ॥
ददाने दीनेभ्यः श्रियमनिश-माशानुसदृशीं
अमंदं सौंदर्यं प्रकर-मकरंदं विकिरति ।
तवास्मिन् मंदार-स्तबक-सुभगे यातु चरणे
निमज्जन् मज्जीवः करणचरणः ष्ट्चरणताम् ॥ ९० ॥
पदन्यास-क्रीडा परिचय-मिवारब्धु-मनसः
स्खलंतस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणि-मंजीर-रणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१ ॥
गतास्ते मंचत्वं द्रुहिण हरि रुद्रेश्वर भृतः
शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलन रागारुणतया
शरीरी शृंगारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥
अराला केशेषु प्रकृति सरला मंदहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथु-रुरसिजारोह विषये
जगत्त्रतुं शंभो-र्जयति करुणा काचिदरुणा ॥ ९३ ॥
कलंकः कस्तूरी रजनिकर बिंबं जलमयं
कलाभिः कर्पूरै-र्मरकतकरंडं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधि-र्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४ ॥
पुरारंते-रंतः पुरमसि तत-स्त्वचरणयोः
सपर्या-मर्यादा तरलकरणाना-मसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपांतः स्थितिभि-रणिमाद्याभि-रमराः ॥ ९५ ॥
कलत्रं वैधात्रं कतिकति भजंते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीना-मचरमे
कुचभ्या-मासंगः कुरवक-तरो-रप्यसुलभः ॥ ९६ ॥
गिरामाहु-र्देवीं द्रुहिणगृहिणी-मागमविदो
हरेः पत्नीं पद्मां हरसहचरी-मद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगम-निस्सीम-महिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥
कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरण-निर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविता०कारणतया
कदा धत्ते वाणीमुखकमल-तांबूल-रसताम् ॥ ९८ ॥
सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते
रतेः पतिव्रत्यं शिथिलपति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकरः
परानंदाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥
प्रदीप ज्वालाभि-र्दिवसकर-नीराजनविधिः
सुधासूते-श्चंद्रोपल-जललवै-रघ्यरचना ।
स्वकीयैरंभोभिः सलिल-निधि-सौहित्यकरणं
त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम् ॥ १०० ॥
सौंदयलहरि मुख्यस्तोत्रं संवार्तदायकम् ।
भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नरः ॥
सौंदर्यलहरि स्तोत्रं संपूर्णं

आलोक सोनी